|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.309. अध्यायः 309
Mahabharata - Vana Parva - Chapter Topics
कतिपयकालातिपाते कर्णस्य सहजकवचकुण्डलधारणएन कुन्त्यां जननम् ॥ 1 ॥ कुन्त्या धात्र्यासह मन्त्रपूर्वकं जातमात्रस् गर्भस्य मञ्जूषायां निक्षेपपूर्वकमश्वनद्यां विसर्जनम् ॥ 2 ॥ सगर्भाया मञ्जूषायाः क्रमेण चर्मण्वतीयमुनाद्वारा गङ्गायां प्लवनेन चम्पापुरीप्रवेशः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-309-0x(2851)(27771)
ततो गर्भः समभवत्पृथायाः पृथिवीपते।
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे ॥ 3-309-1(27772)
सा बान्धवभयाद्बाला गर्भं तं विनिगूहती।
धारयामास सुश्रोणी न चैनां बुबुधे जनः ॥ 3-309-2(27773)
न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते।
कन्यापुरगतां बालां निपुणां परिरक्षणे ॥ 3-309-3(27774)
ततः कालेन सा गर्भं सुषुवे वरवर्णिनी।
कन्यैव तस्य देवस्य प्रसादादमरप्रभम् ॥ 3-309-4(27775)
तथैवाबद्धकवचं कनकोज्ज्वलकुण्डलम्।
हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ॥ 3-309-5(27776)
जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी।
`उत्स्रष्टुकामा तं गर्भं कारयामास भारत। 3-309-6(27777)
मञ्जूषां शिल्पिभिस्तूर्णं सुनद्धां सुप्रतिष्ठिताम् ॥
प्लवैर्बहुविधैर्बद्धां प्लवनार्थं जले नृप।
अजिनैर्मृदुभिश्चैवं संस्तीर्णशयनां तथा'॥ 3-309-7(27778)
मञ्जूषायां समाधाय स्वास्तीर्णायां समन्ततः।
मधूच्चिष्टस्थितायां तं सुखायां रुदती तथा।
श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् ॥ 3-309-8(27779)
जानती चाप्यकर्तव्यं कन्याया गर्भधारणम्।
पुत्रस्नेहेन सा राजन्करुणं पर्यदेवयत् ॥ 3-309-9(27780)
समुत्सृजन्ती मञ्जूपामश्वनद्यां तदा जले।
उवाच रुदतीकुन्ती यानि वाक्यानि तच्छृणु ॥ 3-309-10(27781)
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक।
दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये ॥ 3-309-11(27782)
शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः।
आगताश्च तथा पुत्र भवन्त्यद्रोहचेतसः ॥ 3-309-12(27783)
पातु त्वां वरुणो राजा सलिले सलिलेश्वरः।
अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा ॥ 3-309-13(27784)
पिता त्वां पातु सर्वत्र तपनस्तपतांवरः।
येन दत्तोसि मे पुत्र दिव्येन विधिना किल ॥ 3-309-14(27785)
आदित्या वसवो रुद्राः साध्या विश्वे च देवताः।
मरुतश्च सहेन्द्रेण दिशश्च सदिदीश्वराः ॥ 3-309-15(27786)
रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च।
वेत्स्यामि त्वांविदेशेपि कवचेनाभिसूचितम् ॥ 3-309-16(27787)
धन्यस्ते पुत्र जनरको देवो भानुर्विभावसुः।
स्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् ॥ 3-309-17(27788)
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति।
यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज ॥ 3-309-18(27789)
कोनु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम्।
दिव्यवर्मसमायुक्तं दिव्यकृण्डलभूषितम् ॥ 3-309-19(27790)
पद्मायतविशालाक्षं पद्मताम्रदलोज्ज्वलम्।
सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति ॥ 3-309-20(27791)
धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम्।
अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् ॥ 3-309-21(27792)
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगोचरम्।
हिमवद्वनसंभूतं सिंहं केसरिणं यथा ॥ 3-309-22(27793)
एवं बहुविधं राजन्विलप्य करुणं पृथा।
अवामृजतमज्जूषामश्वनद्यां तदा जले ॥ 3-309-23(27794)
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा।
धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा ॥ 3-309-24(27795)
विसर्जयित्वा मञ्जूषां संबोधनभयात्पितुः।
विवेश राजभवनं पुनः शोकातुरा ततः ॥ 3-309-25(27796)
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मयण्वतीं नदीम्।
चर्मण्वत्याश्चयमुनां ततो गङ्गां जगाम ह ॥ 3-309-26(27797)
गङ्गायाः सूतविषयं चम्पामनुययौ पुरीम्।
स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः ॥ 3-309-27(27798)
अमृतादुत्थितं दिव्यं तनुवर्म सकुण्डलम्।
धारयामास तं गर्भं दैवं च विधिनिर्मितम् ॥ 3-309-28(27799)
एतद्गुह्यं महाराज सूर्यस्यासीन्महात्मनः।
स सूर्यसंभवो गर्भः कुन्त्या गर्भेण धारितः' ॥ 3-309-29(27800)
इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि नवाधिकत्रिशततमोऽध्यायः ॥ 309 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-309-1 दशोत्तरे एकादशे शुक्ले पक्षे प्रतिपदि चन्द्रइव बाल उद्भूतः। माघशुक्लप्रतिपदि कर्णनिषेकजन्मेत्यर्थः ॥ 3-309-5 हर्यक्षं सिंहनेत्रम् ॥ 3-309-6 गर्भं प्रति संमन्त्र्येत्यध्याहारेणान्वयः ॥ 3-309-8 मधूच्छिष्टं सिक्थकम्। मयनमिति भाषायाम्। तेन स्थितायां सर्वतोलिप्तायां मञ्जूषायाम्। जलप्रवेशो न भवेदित्यर्थः ॥ 3-309-12 आगमाश्च तथा सन्तु दिव्येन विधिना तव इति थ. ध. पाठः। आगमाश्च तथा पान्तु इति क. पाठः ॥ 3-309-28 दैवं कर्तृ। गर्भं सकुण्डलं वर्म धारयामासेत्यन्वयः। गर्भं कवचकुण्डलधारकंचकारेत्यर्थः। विधिना ईश्वरेण निर्मितम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|